जाड्यं धियो हरति सिंचति वाचि सत्यं !
मानोन्नतिं दिशति पापमपा करोति !!
चन्दनं शीतलं लोके,चन्दनादपि चन्द्रमाः ! चन्द्रचन्दनयोर्मध्ये शीतला साधुसंगतिः !! |
स्वभावो नोपदेशेन शक्यते कर्तुमन्यथा ! सुतप्तमपि पानीयं पुनर्गच्छति शीतताम् !! |
अनाहूतः प्रविशति अपृष्टो बहु भाषते ! अविश्वस्ते विश्वसिति मूढचेता नराधमः !! |
यथा चित्तं तथा वाचो यथा वाचस्तथा क्रियाः ! चित्ते वाचि क्रियायांच साधुनामेक्रूपता !! |
षड् दोषाः पुरुषेणेह हातव्या भूतिमिच्छता ! निद्रा तद्रा भयं क्रोधः आलस्यं दीर्घसूत्रता !! |
यस्तु सञ्चरते देशान् सेवते यस्तु पण्डितान् ! तस्य विस्तारिता बुद्धिस्तैलबिन्दुरिवाम्भसि !! |
परो अपि हितवान् बन्धुः बन्धुः अपि अहितः परः ! अहितः देहजः व्याधिः हितम् आरण्यं औषधम् !! |
येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मः ! ते मर्त्यलोके भुविभारभूता मनुष्यरूपेण मृगाश्चरन्ति !! |
न चोरहार्य न राजहार्य न भ्रतृभाज्यं न च भारकारि ! व्यये कृते वर्धति एव नित्यं विद्याधनं सर्वधनप्रधानम् !! |
विद्वत्वं च नृपत्वं च नैव तुल्यं कदाचन ! स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते !! |
बलवानप्यशक्तोऽसौ धनवानपि निर्धनः ! श्रुतवानपि मूर्खो सौ यो धर्मविमुखो जनः !! |